|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.24. अध्यायः 024
Mahabharata - Karna Parva - Chapter Topics
दुर्योधनेन शल्यम्प्रति त्रिपुरासुरकथाकथनारम्भः॥ 1 ॥ त्रिपुरासुरोपद्रुतैर्देवैः स्तुल्या रुद्रप्रसादनम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text
दुर्योधन उवाच। 8-24-0x(4885)(56064)
भूय एव तु मद्रेश यत्त्वा वक्ष्यामि तच्छृणु।
यथा पुरावृत्तमिदं युद्धे देवासुरे प्रभो॥ 8-24-1(56065)
यदुक्तवान्पितुर्मह्यं मार्कण्डेयो महातपाः।
ब्रुवतस्तदशेषेण मम राजर्षिसत्तम।
निबोध मनसा चात्र न ते कार्या विचारणा॥ 8-24-2(56066)
`समुत्पन्नो हि राजानः प्रमोह इति निश्चयम्।
कृत्वा चैव व्यवस्यन्ति सर्वे धर्मार्थनिश्चयान्॥ 8-24-3(56067)
देवानामसुराणां च महानासीत्समुच्छ्रयः।
सैंहिकेयास्तदोद्वृत्ता विबुधानवसूदयन्।
ते निरस्तः कृता देवैर्दानवा बलगर्विताः'॥ 8-24-4(56068)
तत्रासीत्प्रथमो राजन्सङ्ग्रामस्तारकामयः।
निर्जिताश्च ततो दैत्या दैवतैरिति नः श्रुतिः॥ 8-24-5(56069)
भग्नदर्पा निरुत्साहाः पातालं विविशुस्तदा॥ 8-24-6(56070)
निर्जितेषु च दैत्येषु तारकस्य सुतास्त्रयः।
ताराक्षः कमलाक्षश्च विद्युन्माली च पार्थिव॥ 8-24-7(56071)
तप उग्रं समास्थाय नियमे परमे स्थिताः।
तपसा कर्णयामासुर्देहांस्ताञ्शत्रुकर्शनाः॥ 8-24-8(56072)
दमेन तपसा चैव नियमेन समाधिना।
तेषां पितामहः प्रीतो वरदः प्रददौ वरम्॥ 8-24-9(56073)
अवध्यत्वं च ते सर्वे सर्वभूतेषु सर्वदा।
सहिता वरयामासः सर्वलोकपितामहम्॥ 8-24-10(56074)
तानब्रवीत्तदा देवः सर्वलोकगुरुः प्रभुः।
नास्ति सर्वामरत्वं वै निवर्तध्वमितोऽसुराः।
अन्यं वरं वृणीध्वं वै रोचते यादृशो हि वः॥ 8-24-11(56075)
ततस्ते सहिता राजन्सम्प्रधार्यासकृद्बहुः।
सर्वलोकेश्वरं वाक्यं प्रणम्यैनमथाऽब्रुवन्॥ 8-24-12(56076)
वस्तुमिच्छाम नगरं कर्तुं कामगमं शुभम्।
सर्वकामसमृद्वार्थमवध्यं देवदानवैः॥ 8-24-13(56077)
यक्षरक्षोरगगणैर्नानाजातिभिरेव च।
न कृत्याभिर्न शस्त्रैश्च न शापैर्ब्रह्मवादिनाम्।
वध्येत त्रिपुरं देव प्रयच्छेः प्रपितामह॥ 8-24-14(56078)
वयं पुराणि त्रीण्येव समास्थाय महीमिमाम्।
विचरिष्याम लोकेऽस्मिंस्त्वत्प्रसादपुरस्कृताः॥ 8-24-15(56079)
ततो वर्षसहस्रेषु समेष्यामः परस्परम्।
एकीभावं गभिष्यन्ति पुराण्येतानि चानघ॥ 8-24-16(56080)
समागतानि चैतानि यो हन्याद्भगवांस्तदा।
एकेषुणा देववरः स नो मृत्युर्भविष्यति॥ 8-24-17(56081)
दुर्योधन उवाच। 8-24-18x(4886)
तेषां तद्वचनं श्रुत्वा दानवानां पितामहः।
एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम्॥ 8-24-18(56082)
ते तु लब्धवराः प्रीताः सम्प्रधार्य परस्परम्।
पुरत्रयविसृष्ट्यर्थं मयं वव्रुर्महारथाः।
विश्वकार्माणमजरं दैत्यदानवपूजितम्॥ 8-24-19(56083)
ततो मयः स्वतपसा चक्रे धीमान्पुराणि च।
त्रीणि काञ्चनमेकं वै रौप्यं कार्ष्णायसं तथा॥ 8-24-20(56084)
काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम्।
आयसं चाभवद्भौमं तदा तेषां परन्तप॥ 8-24-21(56085)
एकैकं योजनशतं विस्तृतं तावदायतम्।
दृढं चाट्टालकयुतं बृहत्प्राकारतोरणम्॥ 8-24-22(56086)
गृहप्रवरसम्बाधमसम्बाधमहापथम्।
प्रासादैर्विविधैश्चापि द्वारैश्चैवोपशोभितम्॥ 8-24-23(56087)
त्रिपुरं तेषु चाप्यासन्राजानो वै पृथक्पृथक्।
दिव्यमाल्याम्बरधरा दैतेया राजसत्तम॥ 8-24-24(56088)
काञ्चनं तारकाक्षस्य दिव्यमासीन्महात्मनः।
राजतं कमलाक्षस्य विद्युन्मालिन आयसम्॥ 8-24-25(56089)
त्रयस्ते दैत्यराजानस्त्रीँल्लोकानाशु तेजसा।
आक्रम्य तस्थुरूचुश्च कश्च नाम प्रजापतिः॥ 8-24-26(56090)
तेषां दानवमुख्यानां प्रयुतान्यर्बुदानि च।
कोट्याश्चाप्रतिवीराणां समाजग्मुस्ततस्ततः॥ 8-24-27(56091)
मांसाशिनः सुदृप्ताश्च सुरैर्विनिकृताः पुरा।
महदैश्वर्यमिच्छन्तस्त्रिपुरं दुर्गमाश्रिताः॥ 8-24-28(56092)
सर्वेषां च पुनश्चैषां सर्वयोगवहो मयः।
तमाश्रित्य हि ते सर्वेऽवर्तयन्नकुतोभयाः॥ 8-24-29(56093)
यो हि यं मनसा कामं दध्यौ त्रिपुरसंश्रयः।
तस्मै तस्मै मयस्तं तं विदधे मायया तदा॥ 8-24-30(56094)
तारकाक्षसुतश्चासीद्वरिर्नाम महाबलः।
तपस्तेपे परमकं येनातुष्यत्पितामहः॥ 8-24-31(56095)
सन्तुष्टमवृणोद्देवं वापी भवतुः नः पुरे।
शस्त्रैर्विनिहता यत्र क्षिप्ताः स्युर्बलवत्तराः॥ 8-24-32(56096)
स तु लब्ध्वा वरं वीरस्तारकाक्षसुतो हरिः।
ससृजे तत्र वापीं तां मृतसञ्जीविनीं प्रभो॥ 8-24-33(56097)
येन रूपेण यो दैत्यो येन वेषेण चाप्यथ।
क्षिप्यते निहतो वाप्यां तादृशेनैव जायते।
सम्पूर्णबलवीर्यस्तु राजञ्छौर्यसमन्वितः॥ 8-24-34(56098)
एवं वीर्येण संयुक्तां कृतां तेन महात्मना।
तां प्राप्य त्रैपुरा वापीं लोकान्सर्वान्बबाधिरे॥ 8-24-35(56099)
महता तपसा सिद्धाः सुराणां भयवर्धनाः।
एकस्मिन्निहते दैत्ये सृजन्ति स्म दशासुरान्।
न तेषां विद्यते युद्वे क्षयो राजन्कथञ्चन॥ 8-24-36(56100)
ततस्ते लोभमोहाभ्यामभिभूता विचेतसः।
निर्भीकाः सहिताः सर्वे स्थापिताः समलोलुपाः॥ 8-24-37(56101)
विद्राव्य सगणान्देवांस्तत्रतत्र तदातदा।
विचेरुः स्वेन कामेन वरदानेन दर्पिताः॥ 8-24-38(56102)
देवोद्यानानि सर्वाणि स्थानानि च दिवौकसाम्।
ऋषीणामाश्रमान्पुण्यान्रम्याञ्चनपदांस्तथा।
उत्सादयन्त मर्यादां दानवा दुष्टचारिणः॥ 8-24-39(56103)
निःस्थानाश्च कृता देवा ऋषयः पितृभिः सह।
दैत्यैस्त्रिभिस्त्रयो लोका ह्याक्रान्तास्तैः सुरेतरैः॥ 8-24-40(56104)
पीड्यमानेषु लोकेषु ततः शक्रो मरुद्वृतः।
पुराण्यायोधयाञ्चक्रे वज्रहस्तः समन्ततः॥ 8-24-41(56105)
नाशकत्तान्यभेद्यानि यदा भेत्तुं पुरन्दरः।
पुराणि वरदत्तानि धात्रा तेन नराधिप॥ 8-24-42(56106)
तदा भीतः सुरपतिर्मुक्त्वा तानि पुराण्यथ।
तैरेव विबुधैः सार्धं पितामहमरिन्दम।
जगामाथ तदाख्यातुं विप्रकारं सुरेतरैः॥ 8-24-43(56107)
ते तत्त्वं सर्वमाख्याय शिरोभिः सम्प्रणम्य च।
तद्वधोपायमाचक्ष्व भगवन्निति चाब्रुवन्॥ 8-24-44(56108)
श्रुत्वा तद्भगवान्देवो देवानिदमुवाच ह।
श्रूयतां त्रिदशाः सर्वे यथेदं वाक्यगौरवम्॥ 8-24-45(56109)
दुरात्मानोऽसुरा नित्यं ते चापि विबुधा मम।
न शक्नुवन्ति ते (ये) सर्वे युष्मान्वै पीडयन्ति ते॥ 8-24-46(56110)
अहं समस्तु सर्वेषां भूतानां नात्र संशयः।
अविनीता निहन्तव्या इत्येवं प्रब्रवीमि वः॥ 8-24-47(56111)
एकेषुणा (हि) विभेद्यानि तानि दुर्गाणि नान्यथा।
शक्तस्तु तानि बाणेन भेत्तुं कामं त्रिलोचनः॥ 8-24-48(56112)
ते यूयं स्थाणुमीशानं जिष्मुमक्लिष्टकारिणम्।
योद्वारं वृणुत क्षिप्रं स तान्हन्ता सुरेतरान्॥ 8-24-49(56113)
ते देवास्तेन वाक्येन चोदिताः प्रणताः स्थिताः।
दिव्यं वर्षसहस्रं वै तपस्तप्त्वा सुरर्षभाः।
शुभात्मानो महात्मानो जग्मुर्वै वृषभध्वजम्॥ 8-24-50(56114)
ब्रह्माणमग्रतः कृत्वा शरण्यं शरणागताः।
तपः परममाजग्मुर्गृणन्तो ब्रह्म शाश्वतम्॥ 8-24-51(56115)
अनङ्गमथनं सर्वे भवं सर्वात्मना गताः।
देवदेवं परं स्थाणुं वरदं त्र्यम्बकं शिवम्॥ 8-24-52(56116)
शर्वमीड्यमजं रुद्रं शशाङ्काङ्कितमूर्धजम्।
तुष्टुवुर्वाग्भिरुग्राभिर्भयेष्वभयमच्युतम्।
सर्वात्मानं महात्मानं येनाप्तं विश्वमात्मना॥ 8-24-53(56117)
तपोविशेषैर्विविधैर्योगं यो वेद चात्मनः।
यः साङ्ख्यमात्मना वेत्ति यस्य चात्मा वेशे सदा॥ 8-24-54(56118)
तं ते ददृशुरीशानं तेजोराशिमुमापतिम्।
`परेण यत्नेन भवं त्रिदशाः शर्वमीश्वरम्'।
अनन्यसदृशं लोके प्रतपन्तमकल्मषम्॥ 8-24-55(56119)
एकश्च भगवांस्तत्र नानारूपमकल्पयत्।
आत्मनः प्रतिरूपाणि रूपाण्यथ महात्मनि।
परस्परस्य चापश्यन्सर्वे परमविस्मिताः॥ 8-24-56(56120)
सर्वभूतमयं दृष्ट्वा तमजं जगतः परिम्।
देवा ब्रह्मर्षयश्चैव शिरोभिर्धरणीं गताः॥ 8-24-57(56121)
तान्स्वस्तिवाच्य चाभ्यर्च्य समुत्थाप्य च शङ्करः।
ब्रूतब्रूतेति भगवान्स्मयमानोऽभ्यभाषत॥ 8-24-58(56122)
त्र्यम्बकेणाभ्यनुज्ञातास्ततस्ते स्वस्थचेतसः।
नमो नमो नमस्तेऽस्तु प्रभो इत्यब्रुवन्भवम्॥ 8-24-59(56123)
नमो देवाधिदेवाय प्रियाधाघ्नेऽतिमन्यवे।
प्रजापतिमखघ्नाय प्रजापतिभिरीड्यते॥ 8-24-60(56124)
नमः स्तुताय स्तुत्याय स्तूयमानाय शम्भवे।
विलोहिताय रुद्राय नीलग्रीवाय शूलिने॥ 8-24-61(56125)
अमोघाय मृगाक्षाय प्रवरायुधयोधिने।
अर्हाय चैव शुद्वाय क्षयाय क्रथनाय च॥ 8-24-62(56126)
दुर्वारणाय शुक्राय ब्रह्मणे ब्रह्मचारिणे।
ईशानायाप्रमेयाय निहन्त्रे चर्मवाससे॥ 8-24-63(56127)
तपोरताय पिङ्गाय व्रतिने कृत्तिवाससे।
कुमारपित्रे त्र्यक्षाय प्रवरायुधधारिणे॥ 8-24-64(56128)
प्रपन्नार्तिविनाशाय ब्रह्मद्विट्सङ्घघातिने।
वनस्पतीनां पतये वनानां पतये नमः॥ 8-24-65(56129)
गवां च पतये नित्यं यज्ञानां पतये नमः।
नमोस्तु ते ससैन्याय त्र्यम्बकायामितौजसे।
मनोवाक्कर्मभिर्देव त्वां प्रपन्नान्भजस्व नः॥ 8-24-66(56130)
ततः प्रसन्नो भगवान्स्वागतेनाभिनन्द्य च।
प्रोवाच व्येतु वस्त्रासो ब्रूत किं करवाणि वः॥ 8-24-67(56131)
`देवाः शर्वस्य वचनं श्रुत्वा हर्षमुपागताः'॥ ॥ 8-24-68(56132)
इति श्रीमन्महाभारते कर्णपर्वणि चतुर्विंशोऽध्यायः॥ 24 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-24-2 पितुः पुरतः। मह्यं मम॥ 8-24-5 तारकामयः तारकासुर एवामयो रोगवत्पराभवहेतुर्यत्र स तथा॥ 8-24-60 ईड्यते ईड्यमानाय। कर्मणीदमपौरुषम्॥ 8-24-66 भजस्व इष्टैः कामैः पूरयस्व॥ 8-24-68 व्येतु व्यपगच्छतु॥ 8-24-24 चतुर्विंशोऽध्याय॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|